अपेक्षातः अधिकस्य कामना दण्डनीया भवति - धर्माधिकारी आचार्यश्री राधा कृष्ण थपलीयालः
- Admin Admin
- Dec 30, 2024
मजरी, देहरादूनम् 30 दिसम्बर (हि.स.)। अखिल कोटी ब्रह्माण्ड नायकस्य, परम ब्रह्म परमात्मनःब्रह्माण्ड नायिकायाः मातुर्भगवती ज्वाल्पा देव्याः कृपया स्वर्गीय बाचुली देवी पत्नी स्वर्गीय श्री जगत राम थपलियाल इत्यनयोः प्रेरणया समस्त पूर्वजेभ्यो बैकुण्ठ लोकप्राप्तये श्रीमद् भागवत कथा आयोजनं थपलियालबान्धवैर्विहितम्। तत्र वक्ता पूज्य व्यास श्री राधा कृष्ण थपलियालपः बद्रीनाथ धाम्नः धर्माधिकारी कथामृतं पायितवान् । तेन उपदिष्टं यद् अपेक्षितातः अधिकं कामयते चेत् दण्डस्य योग्यः भवति मानवः ।
अस्मिन् क्रमे अस्मिन् दिव्ये आयोजने उत्तराखण्डविद्वत्सभा अपि नियन्त्रिता यजमानपरिवारेण आसीत् । तत्र अध्यक्षः विजेन्द्र ममगाईं, उपाध्यक्षः सत्यप्रसाद सेमवालः, महासचिवः दिनेश प्रसाद भट्टः, प्रवक्ता मुकेश पंतः, परामर्शदाता राजेश अमोली इत्येभिः पदाधिकारिभिः सहितापः महेन्द्र थपलियाल, परशुराम उनियाल, दीपक अमोली, राधा थपलियाल व धीरज मैठाणी इत्येते समुपस्थिताः । व्यासपीठेन विद्वत्सभा अभिनन्दिता। सभाप्रतिनिधिभिः व्यासपीठं मालाकरणं कृत्वा प्रणामांजलिः दत्तः । समायोजकपरिवारेण सर्वेषां समागमानाम् आतिथ्यं कृत्वा कृतज्ञता प्रकटिता। यजमानकुटुम्बेन कथायाः आयोजनं सर्वेषां पूर्वजानां मोक्षाय कृतम्।
डॉ शैलेन्द्र प्रसाद थपलियालः, श्रीसती मंजूः श्री अनूप थपलियालः, श्रीमती सुमती श्री रमेश थपलियालः, श्रीमती दमनी एवं श्री विजेन्द्र थपलियालः, श्रीमती चन्द्रकला एवं श्री सजीव थपलियालः, श्रीमती पूनम एवं श्री पुष्पेन्द्र थपलियालः
श्रीमती किरण एवं श्री सदीप थपलियालः
श्रीमती रश्मि एवं श्री प्रदीप थपलियालः
श्रीमती अनिता एवं श्री भुवनेश थपलियालः
श्रीमती उर्मिला एवं श्री बालमुकुन्द भट्टः, श्रीमती मधु एवं श्री राजेन्द्र प्रसाद थपलियालः, श्रीमती प्रनीता एवं श्री जयेन्द्र प्रसाद वर्षा, श्रीमती सुधा एवं श्री प्रकाश चंद वर्षा, ऋषभ प्रियशु अनन्या आरा शिवश सोम्या इति एतैः सहिताः कथा प्रेमिणः उपस्थिताः आसन् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA